Skip to content
वेद पथ वैदिक ज्ञान का पथ

वैदिक शिव-पूजन विधि

साझा करें

पूजन-विधि

1

विसर्जन

देवताका विसर्जन करें ।

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि । यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥ त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ पापोऽहं पापकर्माहं पापात्मा पापसम्भवः । त्राहि मां परमेशानि सर्वपापहरा भव ॥ अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥ सरसिजनिलये सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ यान्तु देवगणाः सर्वे पूजामादाय मामकीम् । इष्टकामसमृद्ध्यर्थं पुनरागमनाय च ॥

2

वरणका संकल्प

आचार्यके वरणका संकल्प पढ़ें और जल छोड़ दें ।

ॐ अद्य....मम....रुद्राभिषेकाख्ये कर्मणि एभिर्वरणद्रव्यैः अमुकामुकगोत्रोत्पन्नान् अमुकामुक-नाम्नो ब्राह्मणान् युष्मानहं वृणे । ॐ आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः । पितरं च प्रयन्त्स्वः ॥ ॐ प्रैतु वाजी कनिक्रदन्नानदद्रासभः पत्वा । भरन्नग्निं पुरीष्यं मा पाद्यायुषः पुरा ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥ ॐ भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः ॥ ॐ यदक्रन्दः प्रथमं जायमान उद्यन्त्समुद्रादुत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥ ॐ यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव । तन्न इन्द्रो बृहस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥ ॐ कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय । इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम उक्तिं यजन्ति ॥ ॐ वयꣳ सोम व्रते तव मनस्तनूषु बिभ्रतः । प्रजावन्तः सचेमहि ॥ ॐ असवे स्वाहा वसवे स्वाहा विभुवे स्वाहा विवस्वते स्वाहा गणश्रिये स्वाहा गणपतये स्वाहाऽभिभुवे स्वाहाऽधिपतये स्वाहा शूषाय स्वाहा सꣳ सर्पाय स्वाहा चन्द्राय स्वाहा ज्योतिषे स्वाहा मलिम्लुचाय स्वाहा दिवा पतयते स्वाहा ॥ ॐ ओजश्च मे सहश्च म आत्मा च मे तनूश्च मे शर्म च मे वर्म च मेऽङ्गानि च मेऽस्थीनि च मे परूꣳषि च मे शरीराणि च म आयुश्च मे जरा च मे यज्ञेन कल्पन्ताम् ।

3

ध्यान

हाथमें पुष्प लेकर देवताके स्वरूपका ध्यान करें, फिर वह पुष्प सामने रख दें ।

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ ॐ नमस्ते रुद्र मन्यव उतो त इषवे नमः । बाहुभ्यामुत ते नमः ॥

4

आसन

देवताके बैठनेके लिये आसनके रूपमें पुष्प अथवा अक्षत समर्पित करें ।

ॐ या ते रुद्र शिवा तनूरघोराऽपापकाशिनी । तया नस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि ॥

5

पाद्य

चरण धोनेके लिये आचमनीसे जल अर्पित करें ।

ॐ यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे । शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत् ॥

6

अर्घ्य

हाथ धोनेके लिये गन्ध, अक्षत और पुष्पयुक्त जल अर्घ्यपात्रसे अर्पित करें ।

ॐ शिवेन वचसा त्वा गिरिशाच्छा वदामसि । यथा नः सर्वमिज्जगदयक्ष्मꣳ सुमना असत् ॥

7

आचमन

देवताको आचमनके लिये आचमनीसे शुद्ध जल अर्पित करें ।

ॐ अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् । अहीꣳश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्योऽधराचीः परा सुव ॥

8

स्नान

देवताको शुद्ध जलसे स्नान करायें ।

ॐ असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः । ये चैनꣳ रुद्रा अभितो दिक्षु श्रिताः सहस्रशोऽवैषाꣳ हेड ईमहे ॥

9

पयःस्नान

दूधसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।

ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः । पयस्वतीः प्रदिशः सन्तु मह्यम् ॥

10

दधिस्नान

दहीसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।

ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयूꣳषि तारिषत् ॥

11

घृतस्नान

घीसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।

ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम । अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥

12

मधुस्नान

मधुसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।

ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ॥ मधु नक्तमुतोषसो मधुमत्पार्थिवꣳ रजः । मधु द्यौरस्तु नः पिता ॥ मधुमानो वनस्पतिर्मधुमाँ२ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ॥

13

शर्करास्नान

शर्करासे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।

ॐ अपाꣳ रसमुद्वयसꣳ सूर्ये सन्तꣳ समाहितम् । अपाꣳ रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥

14

पञ्चामृतस्नान

दूध, दही, घी, मधु और शर्करा — इन पाँचोंको मिलाकर बने पञ्चामृतसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।

ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्रोतसः । सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥

15

गन्धोदकस्नान

चन्दन मिले सुगन्धित जलसे स्नान करायें ।

ॐ अꣳशुना ते अꣳशुः पृच्यतां परुषा परुः । गन्धस्ते सोममवतु मदाय रसो अच्युतः ॥

16

शुद्धोदकस्नान

शुद्ध जलसे स्नान करायें ।

ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्विनाः श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥

17

आचमनीय जल

आचमनके लिये जल अर्पित करें ।

ॐ अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् । अहीꣳश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्योऽधराचीः परा सुव ॥ ॐ नमस्ते रुद्र मन्यव उतो त इषवे नमः । बाहुभ्यामुत ते नमः ॥ या ते रुद्र शिवा तनूरघोराऽपापकाशिनी । तया नस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि ॥ यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे । शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत् ॥ शिवेन वचसा त्वा गिरिशाच्छा वदामसि । यथा नः सर्वमिज्जगदयक्ष्मꣳ सुमना असत् ॥ अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् । अहीꣳश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्योऽधराचीः परा सुव ॥ असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः । ये चैनꣳ रुद्रा अभितो दिक्षु श्रिताः सहस्रशोऽवैषाꣳ हेड ईमहे ॥ असौ योऽवसर्पति नीलग्रीवो विलोहितः । उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः ॥ नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं नमः ॥ प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम् । याश्च ते हस्त इषवः परा ता भगवो वप ॥ विज्यं धनुः कपर्दिनो विशल्यो बाणवाँ२ उत । अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः ॥ या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः । तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परि भुज ॥ परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः । अथो य इषुधिस्तवारे अस्मन्नि धेहि तम् ॥ अवतत्य धनुष्ट्वꣳ सहस्राक्ष शतेषुधे । निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥ नमस्त आयुधायानाततय धृष्णवे । उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥ मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् । मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥ मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । मा नो वीरान् रुद्र भामिनो वधीर्हविष्मन्तः सदमित् त्वा हवामहे ॥

18

वस्त्र

देवताको वस्त्र अर्पित करें, फिर आचमनके लिये जल दें ।

ॐ असौ योऽवसर्पति नीलग्रीवो विलोहितः । उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः ॥

19

यज्ञोपवीत

देवताको यज्ञोपवीत अर्पित करें, फिर आचमनके लिये जल दें ।

ॐ नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं नमः ॥

20

उपवस्त्र

वस्त्रके ऊपर उपवस्त्र अर्पित करें; उपवस्त्रके अभावमें रक्तसूत्र अर्पित करें ।

ॐ सुजातो ज्योतिषा सह शर्म वरूथमासदत्स्वः । वासो अग्ने विश्वरूपꣳ सं व्ययस्व विभावसो ॥

21

गन्ध

चन्दन अनामिका अँगुलीसे देवताके अङ्गोंपर लगायें ।

ॐ प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम् । याश्च ते हस्त इषवः परा ता भगवो वप ॥

22

सुगन्धित द्रव्य

सुगन्धित द्रव्य अर्पित करें ।

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥

23

अक्षत

अक्षत अर्पित करें ।

ॐ व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे प्रियङ्गवश्च मेऽणवश्च मे श्यामाकाश्च मे नीवाराश्च मे गोधूमाश्च मे मसूराश्च मे यज्ञेन कल्पन्ताम् ॥

24

पुष्पमाला

पुष्पोंकी माला पहनायें ।

ॐ विज्यं धनुः कपर्दिनो विशल्यो बाणवाँ२ उत । अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः ॥

25

बिल्वपत्र

तीन दलवाला बिल्वपत्र चिकनी ओरसे अर्पित करें ।

ॐ नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥ त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुतम् । त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम् ॥

26

नानापरिमलद्रव्य

अबीर, गुलाल आदि नाना सुगन्धित द्रव्य अर्पित करें ।

ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमाꣳसं परि पातु विश्वतः ॥

27

धूप

धूप जलाकर देवताको दिखायें ।

ॐ या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः । तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परि भुज ॥

28

दीप

दीप जलाकर देवताको दिखायें, फिर हाथ धो लें ।

ॐ परि ते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः । अथो य इषुधिस्तवारे अस्मन्नि धेहि तम् ॥

29

नैवेद्य

देवताको नैवेद्य निवेदित करें ।

ॐ अवतत्य धनुष्ट्वꣳ सहस्राक्ष शतेषुधे । निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥

30

करोद्वर्तन

सुगन्धित द्रव्यसे देवताके अङ्गोंका उद्वर्तन करें ।

ॐ सिञ्चति परि षिञ्चन्त्युत्सिञ्चन्ति पुनन्ति च । सुरायै बभ्रवै मदे किन्त्वो वदति किन्त्वः ॥

31

ऋतुफल

ऋतुके अनुसार फल अर्पित करें ।

ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वꣳहसः ॥

32

ताम्बूल-पूगीफल

पान और सुपारी अर्पित करें ।

ॐ नमस्त आयुधायानाततय धृष्णवे । उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥

33

दक्षिणा

यथाशक्ति द्रव्य-दक्षिणा अर्पित करें ।

ॐ यद्दत्तं यत्परादानं यत्पूर्तं याश्च दक्षिणाः । तदग्निर्वैश्वकर्मणः स्वर्देवेषु नो दधत् ॥

34

आरती

कर्पूर जलाकर आरती करें; आरतीके बाद जल गिरा दें ।

ॐ आ रात्रि पार्थिवꣳ रजः पितुरप्रायि धामभिः । दिवः सदाꣳसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥ ॐ जय गङ्गाधर जय हर जय गिरिजाधीशा । त्वं मां पालय नित्यं कृपया जगदीशा ॥ १ ॥ हर हर हर महादेव ॥ कैलासे गिरिशिखरे कल्पद्रुमविपिने । गुञ्जति मधुकरपुञ्जे कुञ्जवने गहने ॥ कोकिलकूजित खेलत हंसावन ललिता । रचयति कलाकलापं नृत्यति मुदसहिता ॥ २ ॥ हर॰ ॥ तस्मिंल्ललितसुदेशे शाला मणिरचिता । तन्मध्ये हरनिकटे गौरी मुदसहिता ॥ क्रीडा रचयति भूषारञ्जित निजमीशम् । इन्द्रादिक सुर सेवत नामयते शीशम् ॥ ३ ॥ हर॰ ॥ विबुधबधू बहु नृत्यत हृदये मुदसहिता । किन्नर गायन कुरुते सप्त स्वर सहिता ॥ धिनकत थै थै धिनकत मृदङ्ग वादयते । क्वण क्वण ललिता वेणुं मधुरं नाटयते ॥ ४ ॥ हर॰ ॥ रुण रुण चरणे रचयति नूपुरमुज्ज्वलिता । चक्रावर्ते भ्रमयति कुरुते तां धिक तां ॥ तां तां लुप चुप तां तां डमरू वादयते । अंगुष्ठांगुलिनादं लासकतां कुरुते ॥ ५ ॥ हर॰ ॥ कर्पूरद्युतिगौरं पञ्चाननसहितम् । त्रिनयनशशिधरमौलिं विषधरकण्ठयुतम् ॥ सुन्दरजटाकलापं पावकयुतभालम् । डमरुत्रिशूलपिनाकं करधृतनृकपालम् ॥ ६ ॥ हर॰ ॥ मुण्डै रचयति माला पन्नगमुपवीतम् । वामविभागे गिरिजारूपं अतिललितम् ॥ सुन्दरसकलशरीरे कृतभस्माभरणम् । इति वृषभध्वजरूपं तापत्रयहरणम् ॥ ७ ॥ हर॰ ॥ शङ्खनिनादं कृत्वा झल्लरि नादयते । नीराजयते ब्रह्मा वेदऋचां पठते ॥ अतिमृदुचरणसरोजं हृत्कमले धृत्वा । अवलोकयति महेशं ईशं अभिनत्वा ॥ ८ ॥ हर॰ ॥ ध्यानं आरति समये हृदये अति कृत्वा । रामस्त्रिजटानाथं ईशं अभिनत्वा ॥ संगतिमेवं प्रतिदिन पठनं यः कुरुते । शिवसायुज्यं गच्छति भक्त्या यः शृणुते ॥ ९ ॥ हर॰ ॥

पुस्तकमें इसी स्थानपर छपी आरती →
35

प्रदक्षिणा

देवताकी परिक्रमा करें ।

ॐ मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् । मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥

36

पुष्पाञ्जलि

दोनों हाथोंमें पुष्प लेकर पुष्पाञ्जलि समर्पित करें ।

ॐ मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । मा नो वीरान् रुद्र भामिनो वधीर्हविष्मन्तः सदमित् त्वा हवामहे ॥ ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् । नमः सर्वहितार्थाय जगदाधारहेतवे । साष्टाङ्गोऽयं प्रणामस्ते प्रयत्नेन मया कृतः ॥ पापोऽहं पापकर्माहं पापात्मा पापसम्भवः । त्राहि मां पार्वतीनाथ सर्वपापहरो भव ॥

परिचय

गीताप्रेसके नित्यकर्म-पूजाप्रकाशमें छपी वैदिक शिव-पूजनकी पूरी विधि, पुस्तकके क्रमसे — ध्यान और आसनसे लेकर पञ्चामृत-स्नान, षोडशोपचार पूजन, आरती, प्रदक्षिणा और पुष्पाञ्जलितक । भगवान् गङ्गाधरकी आरती इसी पूजनके अन्तमें छपी है ।

स्रोत 2

  • नित्यकर्म-पूजाप्रकाश (गीताप्रेस, गोरखपुर) — पृष्ठ २६०–२७२

    Parsed from the page transcriptions by scripts/nitya-karma-data/extract-vidhi.py, which asserts a round-trip so no step can be dropped or reordered, and carries each sentence's printed block through so the two layers can be told apart. 36 steps in printed order. ONLY THE SANSKRIT IS TAKEN FROM THIS EDITION. Its Hindi is withheld in full: 6769 characters of it across this rite. What each step tells the reader to do is written for VedPath and is cited separately below. 11 uncertainty flag(s) remain in this range and are listed in the page files: p.268 [PARTIALLY ILLEGIBLE: "उ"]; p.268 [PARTIALLY ILLEGIBLE: "स"]; p.268 [PARTIALLY ILLEGIBLE: "त"]; p.268 [PARTIALLY ILLEGIBLE: "ग"]; p.268 [PARTIALLY ILLEGIBLE: "स"]; p.268 [PARTIALLY ILLEGIBLE: "स"]; p.268 [PARTIALLY ILLEGIBLE: "स"]; p.268 [PARTIALLY ILLEGIBLE: "अ"]; p.268 [PARTIALLY ILLEGIBLE: "स"]; p.268 [PARTIALLY ILLEGIBLE: "प"]; p.268 [PARTIALLY ILLEGIBLE: "स"]

  • VedPath — चरण-निर्देश — वैदिक शिव-पूजन विधि — 36 चरण

    What each step tells the reader to do is written for this site from the traditional name of the upacāra and the mantra printed with it, not adapted from the edition above. Where the site already holds a text the rite calls for, the step links to it instead of repeating it.

अर्थ वेद पथ संपादकीय टीम द्वारा संकलित एवं संपादित हैं, और सामग्री की क्रमशः समीक्षा की जा रही है।

संबंधित सामग्री 1

और देखें 44