Skip to content
वेद पथ वैदिक ज्ञान का पथ

गणपति और गौरीकी पूजा विधि

साझा करें

पूजन-विधि

1

भगवान् गणेशका ध्यान

हाथमें पुष्प लेकर भगवान् गणेशके स्वरूपका ध्यान करें, फिर वह पुष्प सामने रख दें ।

गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारुभक्षणम् । उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम् ॥

2

भगवती गौरीका ध्यान

हाथमें पुष्प लेकर भगवती गौरीके स्वरूपका ध्यान करें, फिर वह पुष्प सामने रख दें ।

नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ श्रीगणेशाम्बिकाभ्यां नमः, ध्यानं समर्पयामि ।

3

भगवान् गणेशका आवाहन

हाथमें अक्षत और पुष्प लेकर भगवान् गणेशका आवाहन करें ।

ॐ गणानां त्वा गणपतिꣳ हवामहे प्रियाणां त्वा प्रियपतिꣳ हवामहे निधीनां त्वा निधिपतिꣳ हवामहे वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥ (यजुर्वेद २३ । १९) एह्येहि हेरम्ब महेशपुत्र समस्तविघ्नौघविनाशदक्ष । माङ्गल्यपूजाप्रथमप्रधान गृहाण पूजां भगवन् नमस्ते ॥ ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः, गणपतिमावाहयामि, स्थापयामि, पूजयामि च ।

4

भगवती गौरीका आवाहन

हाथमें अक्षत और पुष्प लेकर भगवती गौरीका आवाहन करें ।

ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥ (शु० य० २३ । १८) हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम् । लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ॥ ॐ भूर्भुवः स्वः गौर्यै नमः, गौरीमावाहयामि, स्थापयामि, पूजयामि च ।

5

प्रतिष्ठा

मूर्तिमें देवताकी प्रतिष्ठा करें ।

ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञꣳ समिमं दधातु । विश्वे देवास इह मादयन्तामो३ म्प्रतिष्ठ ॥ (यजुर्वेद २ । १३) अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च । अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥ गणेशाम्बिके ! सुप्रतिष्ठिते वरदे भवेताम् । प्रतिष्ठापूर्वकम् आसनार्थे अक्षतान् समर्पयामि गणेशाम्बिकाभ्यां नमः । । पाद्य, अर्घ्य, आचमनीय, स्नानीय, पुनराचमनीय— ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ॥      (यजु० १ । १०) एतानि पाद्यार्घ्याचमनीयस्नानीयपुनराचमनीयानि समर्पयामि गणेशाम्बिकाभ्यां नमः । ।

6

दुग्धस्नान

दूधसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।

ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः । पयस्वतीः प्रदिशः सन्तु मह्यम् ॥ (यजुर्वेद १८ । ३६) कामधेनुसमुद्भूतं सर्वेषां जीवनं परम् । पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पयःस्नानं समर्पयामि । ।

7

दधिस्नान

दहीसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।

ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयूꣳषि तारिषत् ॥ (यजु० २३ । ३२) पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दधिस्नानं समर्पयामि । ।

8

घृतस्नान

घीसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।

ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम । अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥ (यजु० १७ । ८८) नवनीतसमुत्पन्नं सर्वसंतोषकारकम् । घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, घृतस्नानं समर्पयामि । ।

9

मधुस्नान

मधुसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।

ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ॥ मधु नक्तमुतोषसो मधुमत्पार्थिवꣳ रजः । मधु द्यौरस्तु नः पिता ॥ (यजु० १३ । २७-२८) पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु । तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मधुस्नानं समर्पयामि ।

10

शर्करास्नान

शर्करासे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।

ॐ अपाꣳ रसमुद्वयसꣳ सूर्ये सन्तꣳ समाहितम् । अपाꣳ रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥      (यजु० ९ । ३) इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् । मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, शर्करास्नानं समर्पयामि । ।

11

पञ्चामृतस्नान

दूध, दही, घी, मधु और शर्करा — इन पाँचोंको मिलाकर बने पञ्चामृतसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।

ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्रोतसः । सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥ (यजु० ३४ । ११) पञ्चामृतं मयानीतं पयो दधि घृतं मधु । शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पञ्चामृतस्नानं समर्पयामि ।

12

गन्धोदकस्नान

चन्दन मिले सुगन्धित जलसे स्नान करायें ।

ॐ अꣳशुना ते अꣳशुः पृच्यतां परुषा परुः । गन्धस्ते सोममवतु मदाय रसो अच्युतः ॥ (यजु० २० । २७) मलयाचलसम्भूतचन्दनेन विनिःसृतम् । इदं गन्धोदकस्नानं कुङ्कुमाक्तं च गृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, गन्धोदकस्नानं समर्पयामि ।

13

शुद्धोदकस्नान

शुद्ध जलसे स्नान करायें ।

ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्विनाः श्येतः श्येताक्षोऽरुणास्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥ (यजु० २४ । ३) गङ्गा च यमुना चैव गोदावरी सरस्वती । नर्मदा सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, शुद्धोदकस्नानं समर्पयामि ।

14

आचमन

देवताको आचमनके लिये आचमनीसे शुद्ध जल अर्पित करें ।

शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।

15

वस्त्र

देवताको वस्त्र अर्पित करें, फिर आचमनके लिये जल दें ।

ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः । तं धीरासः कवय उन्नयन्ति स्वाध्यो३ मनसा देवयन्तः ॥ (ऋग्० ३ । ८ । ४) शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् । देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, वस्त्रं समर्पयामि ।

16

आचमन

देवताको आचमनके लिये आचमनीसे शुद्ध जल अर्पित करें ।

वस्त्रान्ते आचमनीयं जलं समर्पयामि ।

17

उपवस्त्र

वस्त्रके ऊपर उपवस्त्र अर्पित करें; उपवस्त्रके अभावमें रक्तसूत्र अर्पित करें ।

ॐ सुजातो ज्योतिषा सह शर्म वरूथमाऽसदत्स्वः । वासो अग्ने विश्वरूपꣳ सं व्ययस्व विभावसो ॥ (यजु० ११ । ४०) यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति । उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, उपवस्त्रं (उपवस्त्राभावे रक्तसूत्रम् समर्पयामि) ।

18

आचमन

देवताको आचमनके लिये आचमनीसे शुद्ध जल अर्पित करें ।

उपवस्त्रान्ते आचमनीयं जलं समर्पयामि ।

19

यज्ञोपवीत

देवताको यज्ञोपवीत अर्पित करें, फिर आचमनके लिये जल दें ।

ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि । नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् । उपवीतं मया दत्तं गृहाण परमेश्वर ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, यज्ञोपवीतं समर्पयामि ।

20

आचमन

देवताको आचमनके लिये आचमनीसे शुद्ध जल अर्पित करें ।

यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।

21

चन्दन

चन्दन अनामिका अँगुलीसे देवताके अङ्गोंपर लगायें ।

ॐ त्वां गन्धर्वा अखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः । त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत ॥ (यजु० १२ । ९८) श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ ! चन्दनं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, चन्दनानुलेपनं समर्पयामि ।

22

अक्षत

अक्षत अर्पित करें ।

ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥ (यजु० ३ । ५१) अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वर ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, अक्षतान् समर्पयामि ।

23

पुष्पमाला

पुष्पोंकी माला पहनायें ।

ॐ ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः । अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ॥ (यजु० १२ । ७७) माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो । मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पमालां समर्पयामि ।

24

दूर्वा

दूर्वाङ्कुर अर्पित करें ।

ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि । एवा नो दूर्वे प्र तनु सहस्रेण शतेन च ॥ (यजु० १३ । २०) दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान् । आनीतांस्तव पूजार्थं गृहाण गणनायक ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दूर्वाङ्कुरान् समर्पयामि ।

25

सिन्दूर

सिन्दूर अर्पित करें ।

ॐ सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः । घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥ (यजु० १७ । ९५) सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम् । शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, सिन्दूरं समर्पयामि ।

26

अबीर-गुलाल आदि नाना परिमल द्रव्य

अबीर, गुलाल आदि नाना सुगन्धित द्रव्य अर्पित करें ।

ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमाꣳसं परि पातु विश्वतः ॥ (यजु० २९ । ५१) अबीरं च गुलालं च हरिद्रादिसमन्वितम् । नाना परिमलं द्रव्यं गृहाण परमेश्वर ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नानापरिमलद्रव्याणि समर्पयामि ।

27

सुगन्धिद्रव्य

सुगन्धित द्रव्य अर्पित करें ।

ॐ अहिरिव ................................ विश्वतः ॥ दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम् । गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, सुगन्धिद्रव्यं समर्पयामि ।

28

धूप

धूप जलाकर देवताको दिखायें ।

ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामः । देवानामसि वह्नितमꣳ सस्नितमं पप्रितमं जुष्टतमं देवहूतमम् ॥ (यजु० १ । ८) वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, धूपमाघ्रापयामि ।

29

दीप

दीप जलाकर देवताको दिखायें, फिर हाथ धो लें ।

ॐ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा । अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा ॥ ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ॥ (यजु० ३ । ९) साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया । दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् ॥ भक्त्या दीपं प्रयच्छामि देवाय परमात्मने । त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दीपं दर्शयामि ।

30

हस्तप्रक्षालन

हाथ धोनेके लिये जल अर्पित करें ।

31

नैवेद्य

देवताको नैवेद्य निवेदित करें ।

ॐ नाभ्या आसीदन्तरिक्षꣳ शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ२ अकल्पयन् ॥ (यजु० ३१ । १३) ॐ अमृतोपस्तरणमसि स्वाहा । ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ समानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ अमृतापिधानमसि स्वाहा । शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च । आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नैवेद्यं निवेदयामि । नैवेद्यान्ते आचमनीयं जलं समर्पयामि ।

32

ऋतुफल

ऋतुके अनुसार फल अर्पित करें ।

ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वꣳ हसः ॥ (यजु० १२ । ८९) इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, ऋतुफलानि समर्पयामि । फलान्ते आचमनीयं जलं समर्पयामि ।

33

उत्तरापोऽशन

नैवेद्यके बाद आचमनके लिये जल अर्पित करें ।

उत्तरापोऽशनार्थं जलं समर्पयामि । गणेशाम्बिकाभ्यां नमः ।

34

करोद्वर्तन

सुगन्धित द्रव्यसे देवताके अङ्गोंका उद्वर्तन करें ।

ॐ अꣳशुना ते अꣳशुः पृच्यतां परुषा परुः । गन्धस्ते सोममवतु मदाय रसो अच्युतः ॥ (यजु० २० । २७) चन्दनं मलयोद्भूतं कस्तूर्यादिसमन्वितम् । करोद्वर्तनकं देव गृहाण परमेश्वर ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, करोद्वर्तनकं चन्दनं समर्पयामि ।

35

ताम्बूल

इलायची, लौंग और सुपारीके साथ पान अर्पित करें ।

ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ (यजु० ३१ । १४) पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मुखवासार्थम् एलालवंगपूगीफलसहितं ताम्बूलं समर्पयामि ।

36

दक्षिणा

यथाशक्ति द्रव्य-दक्षिणा अर्पित करें ।

ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ (यजु० १३ । ४) हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, कृतायाः पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि ।

37

आरती

कर्पूर जलाकर आरती करें; आरतीके बाद जल गिरा दें ।

ॐ इदꣳ हविः प्रजननं मे अस्तु दशवीरꣳ सर्वगणꣳ स्वस्तये । आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त ॥ (यजु० १९ । ४८) ॐ आ रात्रि पार्थिवꣳ रजः पितुरप्रायि धामभिः । दिवः सदाꣳसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥ (यजु० ३४ । ३२) कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् । आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, आरार्तिकं समर्पयामि ।

38

पुष्पाञ्जलि

दोनों हाथोंमें पुष्प लेकर पुष्पाञ्जलि समर्पित करें ।

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ (यजु० ३१ । १६) ॐ गणानां त्वा ......... ॥ (पृ० १७४) ॐ अम्बे अम्बिके ..... ॥ (पृ० १७४) नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च । पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पाञ्जलिं समर्पयामि ।

39

प्रदक्षिणा

देवताकी परिक्रमा करें ।

ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः । तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि । (यजु० १६ । ६१) यानि कानि च पापानि जन्मान्तरकृतानि च । तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रदक्षिणां समर्पयामि ।

40

विशेषार्घ्य

नियत मन्त्रके साथ विशेष अर्घ्य अर्पित करें ।

रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक । भक्तानामभयं कर्ता त्राता भव भवार्णवात् ॥ द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो । वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ॥ अनेन सफलार्घ्येण वरदोऽस्तु सदा मम । ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, विशेषार्घ्यं समर्पयामि ।

41

प्रार्थना

हाथ जोड़कर प्रार्थना करें ।

विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय । नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ॥ भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय । विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते ॥ नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः नमस्ते रुद्ररूपाय करिरूपाय ते नमः । विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ॥ त्वां विघ्नशत्रुदलनेति च सुन्दरेति भक्तप्रियेति सुखदेति फलप्रदेति । विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्यो गणेश वरदो भव नित्यमेव ॥ त्वं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया । सम्मोहितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रार्थनापूर्वकं नमस्कारान् समर्पयामि । गणेशपूजने कर्म यन्न्यूनमधिकं कृतम् । तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम ॥ अनया पूजया गणेशाम्बिके प्रीयेताम्, न मम ।

परिचय

गीताप्रेसके नित्यकर्म-पूजाप्रकाशमें छपी गणपति और गौरीके एक साथ पूजनकी पूरी विधि, पुस्तकके क्रमसे — दोनोंके ध्यान और आवाहनसे लेकर प्रतिष्ठा, पञ्चामृत-स्नान, षोडशोपचार पूजन, पुष्पाञ्जलि, प्रदक्षिणा और अन्तमें विशेषार्घ्य तथा प्रार्थनातक ।

स्रोत 2

  • नित्यकर्म-पूजाप्रकाश (गीताप्रेस, गोरखपुर) — पृष्ठ १७४–१८५

    Parsed from the page transcriptions by scripts/nitya-karma-data/extract-vidhi.py, which asserts a round-trip so no step can be dropped or reordered, and carries each sentence's printed block through so the two layers can be told apart. 41 steps in printed order. ONLY THE SANSKRIT IS TAKEN FROM THIS EDITION. Its Hindi is withheld in full: 1394 characters of it across this rite. What each step tells the reader to do is written for VedPath and is cited separately below. 14 uncertainty flag(s) remain in this range and are listed in the page files: p.174 [UNCERTAIN: "नमस्ले" / "नमस्ते"]; p.174 [UNCERTAIN: "गणपलये" / "गणपतये"]; p.174 [UNCERTAIN: "नयलि" / "नयति"]; p.175 [UNCERTAIN: "इलना" / "इतना"]; p.176 [UNCERTAIN: "रसमुद्वयसꣳ" / "रसमुद्ध्यसꣳ"]; p.177 [UNCERTAIN: "प्रतिगृह्यलाम्" / "प्रतिगृह्यताम्"]; p.177 [UNCERTAIN: "शाल्तिं" / "शान्तिं"]; p.179 [UNCERTAIN: "प्रलि" / "प्रति"]; p.179 [UNCERTAIN: "मालल्यादीनि" / "मालत्यादीनि"]; p.179 [UNCERTAIN: "मयाहृलानि" / "मयाहृतानि"]; p.179 [UNCERTAIN: "पतयन्लि" / "पतयन्ति"]; p.179 [UNCERTAIN: "प्रतिगृह्यलाम्" / "प्रतिगृह्यताम्"]; p.180 [UNCERTAIN: "महापरिमलाद्भुलम्" / "महापरिमलाद्भुतम्"]; p.182 [UNCERTAIN: "कृलायाः" / "कृतायाः"] Settled by the book itself, not from outside it: "नमस्ले" → "नमस्ते" (printed form occurs 0× elsewhere in this book; settled form 20×); "गणपलये" → "गणपतये" (printed form occurs 0× elsewhere in this book; settled form 7×); "नयलि" → "नयति" (printed form occurs 0× elsewhere in this book; settled form 1×); "इलना" → "इतना" (printed form occurs 0× elsewhere in this book; settled form 6×); "प्रतिगृह्यलाम्" → "प्रतिगृह्यताम्" (printed form occurs 0× elsewhere in this book; settled form 77×); "शाल्तिं" → "शान्तिं" (printed form occurs 0× elsewhere in this book; settled form 7×); "प्रलि" → "प्रति" (printed form occurs 0× elsewhere in this book; settled form 237×); "मालल्यादीनि" → "मालत्यादीनि" (printed form occurs 0× elsewhere in this book; settled form 7×); "मयाहृलानि" → "मयाहृतानि" (printed form occurs 0× elsewhere in this book; settled form 3×); "पतयन्लि" → "पतयन्ति" (printed form occurs 0× elsewhere in this book; settled form 1×); "महापरिमलाद्भुलम्" → "महापरिमलाद्भुतम्" (printed form occurs 0× elsewhere in this book; settled form 4×); "कृलायाः" → "कृतायाः" (printed form occurs 0× elsewhere in this book; settled form 3×). The page files keep the original flags; only the published text is settled.

  • VedPath — चरण-निर्देश — गणपति और गौरीकी पूजा विधि — 41 चरण

    What each step tells the reader to do is written for this site from the traditional name of the upacāra and the mantra printed with it, not adapted from the edition above. Where the site already holds a text the rite calls for, the step links to it instead of repeating it.

अर्थ वेद पथ संपादकीय टीम द्वारा संकलित एवं संपादित हैं, और सामग्री की क्रमशः समीक्षा की जा रही है।

और देखें 17