श्रीसत्यनारायण-पूजन विधि
पूजन-विधि
1 यजमानद्वारा रक्षाबन्धन
यजमानद्वारा रक्षाबन्धन
यजमान आचार्यके दाहिने हाथमें रक्षासूत्र बाँधें ।
ॐ व्रतेन दीक्षामाप्नोति दीक्षयाऽऽप्नोति दक्षिणाम् । दक्षिणा श्रद्धामाप्नोति श्रद्धया सत्यमाप्यते ॥
2 यजमानद्वारा तिलक
यजमानद्वारा तिलक
यजमान आचार्यको तिलक लगाकर प्रणाम करें ।
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥
3 आचार्यद्वारा रक्षाबन्धन
आचार्यद्वारा रक्षाबन्धन
आचार्य यजमानके दाहिने हाथमें रक्षासूत्र बाँधें ।
ॐ यदाबध्नन् दाक्षायणा हिरण्यꣳ शतानीकाय सुमनस्यमानाः । तन्म आ बध्नामि शतशारदायायुष्माञ्जरदष्टिर्यथासम् ॥ येन बद्धो बली राजा दानवेन्द्रो महाबलः । तेन त्वामनुबध्नामि रक्षे मा चल मा चल ॥
4 आचार्यद्वारा तिलक
आचार्यद्वारा तिलक
आचार्य यजमानको तिलक लगायें ।
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
5 ध्यान
ध्यान
हाथमें पुष्प लेकर देवताके स्वरूपका ध्यान करें, फिर वह पुष्प सामने रख दें ।
नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥ ॐ श्रीमन्नारायणाय नमः । ध्यानार्थे पुष्पाणि समर्पयामि ।
6 आवाहन
आवाहन
हाथमें अक्षत और पुष्प लेकर आवाहन-मुद्रासे देवताको पधारनेका निमन्त्रण दें, और वे अक्षत-पुष्प अर्पित करें ।
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिꣳ सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ आगच्छ भगवन् देव स्थाने चात्र स्थिरो भव । यावत् पूजां करिष्यामि तावत् त्वं संनिधौ भव ॥ ॐ श्रीमन्नारायणाय नमः । आवाहनार्थे पुष्पं समर्पयामि ।
7 आसन
आसन
देवताके बैठनेके लिये आसनके रूपमें पुष्प अथवा अक्षत समर्पित करें ।
ॐ पुरुष एवेदꣳ सर्वं यद्भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ अनेकरत्नसंयुक्तं नानामणिगणान्वितम् । भावितं हेममयं दिव्यमासनं प्रतिगृह्यताम् ॥ ॐ श्रीमन्नारायणाय नमः । आसनार्थे पुष्पाणि समर्पयामि ।
8 पाद्य
पाद्य
चरण धोनेके लिये आचमनीसे जल अर्पित करें ।
ॐ एतावानस्य महिमातो ज्यायाँश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ गङ्गोदकं निर्मलं च सर्वसौगन्ध्यसंयुतम् । पादप्रक्षालनार्थाय दत्तं मे प्रतिगृह्यताम् ॥ ॐ श्रीमन्नारायणाय नमः । पादयोः पाद्यं समर्पयामि ।
9 अर्घ्य
अर्घ्य
हाथ धोनेके लिये गन्ध, अक्षत और पुष्पयुक्त जल अर्घ्यपात्रसे अर्पित करें ।
ॐ त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः । ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥ गन्धपुष्पाक्षतैर्युक्तमर्घ्यं सम्पादितं मया । गृहाणार्घ्यं मया दत्तं प्रसन्नो वरदो भव ॥ ॐ श्रीमन्नारायणाय नमः । हस्तयोरर्घ्यं समर्पयामि ।
10 आचमन
आचमन
देवताको आचमनके लिये आचमनीसे शुद्ध जल अर्पित करें ।
ॐ ततो विराडजायत विराजो अधि पूरुषः । स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ कर्पूरेण सुगन्धेन वासितं स्वादु शीतलम् । तोयमाचमनीयार्थं गृहाण परमेश्वर ॥ ॐ श्रीमन्नारायणाय नमः । मुखे आचमनीयं जलं समर्पयामि ।
11 स्नान
स्नान
देवताको शुद्ध जलसे स्नान करायें ।
ॐ तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् । पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥ मन्दाकिन्यास्तु यद् वारि सर्वपापहरं शुभम् । तदिदं कल्पितं देव स्नानार्थं प्रतिगृह्यताम् ॥ ॐ श्रीमन्नारायणाय नमः । स्नानीयं जलं समर्पयामि ।
12 स्नानाङ्ग-आचमन
स्नानाङ्ग-आचमन
स्नानके अङ्गरूपमें आचमनके लिये जल अर्पित करें ।
ॐ श्रीमन्नारायणाय नमः । स्नानान्ते आचमनीयं जलं समर्पयामि ।
13 दुग्धस्नान
दुग्धस्नान
दूधसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।
ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः । पयस्वतीः प्रदिशः सन्तु मह्यम् ॥ कामधेनुसमुद्भूतं सर्वेषां जीवनं परम् । पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ॥ ॐ श्रीमन्नारायणाय नमः । पयःस्नानं समर्पयामि ।
14 दधिस्नान
दधिस्नान
दहीसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।
ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयूꣳषि तारिषत् ॥ पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥ ॐ श्रीमन्नारायणाय नमः । दधिस्नानं समर्पयामि ।
15 घृतस्नान
घृतस्नान
घीसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।
ॐ घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा । दिशः प्रदिश आदिशो विदिश उद्दिशो दिग्भ्यः स्वाहा । नवनीतसमुत्पन्नं सर्वसंतोषकारकम् । घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥ ॐ श्रीमन्नारायणाय नमः । घृतस्नानं समर्पयामि ।
16 मधुस्नान
मधुस्नान
मधुसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।
ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ॥ मधु नक्तमुतोषसो मधुमत्पार्थिवꣳ रजः । मधु द्यौरस्तु नः पिता ॥ मधुमान्नो वनस्पतिर्मधुमाँ२ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ॥ पुष्परेणुसमुत्पन्नं सुस्वादु मधुरं मधु । तेजःपुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ श्रीमन्नारायणाय नमः । मधुस्नानं समर्पयामि ।
17 शर्करास्नान
शर्करास्नान
शर्करासे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।
ॐ अपाꣳ रसमुद्वयसꣳ सूर्ये सन्तꣳ समाहितम् । अपाꣳ रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥ इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् । मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ॥ ॐ श्रीमन्नारायणाय नमः । शर्करास्नानं समर्पयामि ।
18 पञ्चामृतस्नान
पञ्चामृतस्नान
दूध, दही, घी, मधु और शर्करा — इन पाँचोंको मिलाकर बने पञ्चामृतसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।
ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्रोतसः । सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥ पयोदधिघृतं चैव मधुशर्करयान्वितम् । पञ्चामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ श्रीमन्नारायणाय नमः । पञ्चामृतस्नानं समर्पयामि ।
19 गन्धोदक स्नान
गन्धोदक स्नान
चन्दन मिले सुगन्धित जलसे स्नान करायें ।
अꣳशुना ते अꣳशुः पृच्यतां परुषा परुः । गन्धस्ते सोममवतु मदाय रसो अच्युतः ॥ मलयाचलसम्भूतचन्दनेन विमिश्रितम् । इदं गन्धोदकस्नानं कुङ्कुमाक्तं नु गृह्यताम् ॥ ॐ श्रीमन्नारायणाय नमः । गन्धोदकस्नानं समर्पयामि ।
20 शुद्धोदकस्नान
शुद्धोदकस्नान
शुद्ध जलसे स्नान करायें ।
शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्विनाः श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः । शुद्धं यत्सलिलं दिव्यं गङ्गाजलसमं स्मृतम् । समर्पितं मया भक्त्या शुद्धस्नानाय गृह्यताम् ॥ ॐ श्रीमन्नारायणाय नमः । शुद्धोदकस्नानं समर्पयामि ।
21 वस्त्र
वस्त्र
देवताको वस्त्र अर्पित करें, फिर आचमनके लिये जल दें ।
ॐ तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे । छन्दाꣳसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् । देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ॥ ॐ श्रीमन्नारायणाय नमः । वस्त्रं समर्पयामि, आचमनीयं जलं च समर्पयामि ।
22 उपवस्त्र
उपवस्त्र
वस्त्रके ऊपर उपवस्त्र अर्पित करें; उपवस्त्रके अभावमें रक्तसूत्र अर्पित करें ।
उपवस्त्रं प्रयच्छामि देवाय परमात्मने । भक्त्या समर्पितं देव प्रसीद परमेश्वर ॥ ॐ श्रीमन्नारायणाय नमः । उपवस्त्रं समर्पयामि, आचमनीयं जलं च समर्पयामि ।
23 यज्ञोपवीत
यज्ञोपवीत
देवताको यज्ञोपवीत अर्पित करें, फिर आचमनके लिये जल दें ।
ॐ तस्मादश्वा अजायन्त ये के चोभयादतः । गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् । उपवीतं मया दत्तं गृहाण परमेश्वर ॥ ॐ श्रीमन्नारायणाय नमः । यज्ञोपवीतं समर्पयामि, यज्ञोपवीतान्ते आचमनीयं जलं च समर्पयामि ।
24 गन्ध
गन्ध
चन्दन अनामिका अँगुलीसे देवताके अङ्गोंपर लगायें ।
ॐ तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः । तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥ ॐ श्रीमन्नारायणाय नमः । चन्दनं समर्पयामि ।
25 अक्षत
अक्षत
शालग्रामपर अक्षत नहीं चढ़ाया जाता; अक्षतके स्थानपर श्वेत तिल अर्पित करें ।
ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥ अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वर ॥ ॐ श्रीमन्नारायणाय नमः । अक्षतस्थाने श्वेततिलान् समर्पयामि ।
26 पुष्प
पुष्प
देवताको पुष्प अर्पित करें ।
ॐ इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । समूढमस्य पाꣳसुरे स्वाहा ॥ माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो । मयानीतानि पुष्पाणि गृहाण परमेश्वर ॥ ॐ श्रीमन्नारायणाय नमः । पुष्पं पुष्पमालां च समर्पयामि ।
27 तुलसीपत्र
तुलसीपत्र
तुलसीदल अर्पित करें ।
ॐ यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्यासीत् किं बाहू किमूरू पादा उच्येते ॥ तुलसीं हेमरूपां च रत्नरूपां च मञ्जरीम् । भवमोक्षप्रदां तुभ्यमर्पयामि हरिप्रियाम् ॥ ॐ श्रीमन्नारायणाय नमः । तुलसीदलं तुलसीमञ्जरीं च समर्पयामि ।
28 दूर्वा
दूर्वा
दूर्वाङ्कुर अर्पित करें ।
ॐ काण्डात्काण्डात् प्ररोहन्ती परुषः परुषस्परि । एवा नो दूर्वे प्र तनु सहस्रेण शतेन च ॥ दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान् । आनीतांस्तव पूजार्थं गृहाण परमेश्वर ॥ ॐ श्रीमन्नारायणाय नमः । दूर्वाङ्कुरान् समर्पयामि ।
29 आभूषण
आभूषण
देवताको आभूषण अर्पित करें ।
वज्रमाणिक्यवैदूर्यमुक्ताविद्रुममण्डितम् । पुष्परागसमायुक्तं भूषणं प्रतिगृह्यताम् ॥ ॐ श्रीमन्नारायणाय नमः । अलङ्करणार्थे आभूषणानि समर्पयामि ।
30 सुगन्धित तैल
सुगन्धित तैल
सुगन्धित तेल अर्पित करें ।
अहिरिव भोगैः पर्येति बाहुं ज्याया हेति परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमाꣳसं परि पातु विश्वतः ॥ तैलानि च सुगन्धीनि द्रव्याणि विविधानि च । मया दत्तानि लेपार्थं गृहाण परमेश्वर ॥ ॐ श्रीमन्नारायणाय नमः । सुगन्धिततैलादिद्रव्यं समर्पयामि ।
31 धूप
धूप
धूप जलाकर देवताको दिखायें ।
ॐ ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्याꣳ शूद्रो अजायत ॥ वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ ॐ श्रीमन्नारायणाय नमः । धूपमाघ्रापयामि ।
32 दीप
दीप
दीप जलाकर देवताको दिखायें, फिर हाथ धो लें ।
ॐ चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत । श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥ साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया । दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् ॥ ॐ श्रीमन्नारायणाय नमः । दीपं दर्शयामि ।
33 नैवेद्य
नैवेद्य
देवताको नैवेद्य निवेदित करें ।
१-ॐ प्राणाय स्वाहा— कनिष्ठिका, २-ॐ अपानाय स्वाहा— अनामिका, ३-ॐ व्यानाय स्वाहा— मध्यमा, ४-ॐ उदानाय स्वाहा— तर्जनी, मध्यमा, ५-ॐ समानाय स्वाहा— ॐ नाभ्या आसीदन्तरिक्षꣳ शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ२ अकल्पयन् ॥ त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये । गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर ॥ ॐ श्रीमन्नारायणाय नमः । नैवेद्यं निवेदयामि, मध्ये पानीयं जलं समर्पयामि, आचमनीयं जलं च समर्पयामि ।
34 अखण्ड ऋतुफल
अखण्ड ऋतुफल
बिना कटा, अखण्ड ऋतुफल अर्पित करें ।
ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वꣳ हसः ॥ इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥ ॐ श्रीमन्नारायणाय नमः । अखण्डऋतुफलं समर्पयामि ।
35 ताम्बूल
ताम्बूल
इलायची, लौंग और सुपारीके साथ पान अर्पित करें ।
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । एलालवङ्गसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ ॐ श्रीमन्नारायणाय नमः । एलालवङ्गपूगीफलयुतं ताम्बूलं समर्पयामि ।
36 दक्षिणा
दक्षिणा
यथाशक्ति द्रव्य-दक्षिणा अर्पित करें ।
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ दक्षिणा प्रेमसहिता यथाशक्तिसमर्पिता । अनन्तफलदामेनां गृहाण परमेश्वर ॥ ॐ श्रीमन्नारायणाय नमः । द्रव्यदक्षिणां समर्पयामि ।
37 आरती
आरती
कर्पूर जलाकर आरती करें; आरतीके बाद जल गिरा दें ।
इसी स्थानपर गायी जानेवाली आरती → 38 आरती-मन्त्र
आरती-मन्त्र
कर्पूरकी आरती उतारें । इसके बाद गायी जानेवाली आरती इसी पृष्ठपर जुड़े दस्तावेजमें पूरी दी गयी है ।
ॐ इदꣳ हविः प्रजननं मे अस्तु दशवीरꣳ सर्वगणꣳ स्वस्तये । आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त ॥ कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् । आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥
39 स्तुति-प्रार्थना
स्तुति-प्रार्थना
हाथ जोड़कर स्तुति और प्रार्थना करें ।
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ आकाशात्पतितं तोयं यथा गच्छति सागरम् । सर्वदेवनमस्कारः केशवम्प्रति गच्छति ॥ मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् । यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥ त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ पापोऽहं पापकर्माहं पापात्मा पापसम्भवः । त्राहि मां पुण्डरीकाक्ष सर्वपापहरो भव ॥ कृष्णाय वासुदेवाय देवकीनन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥
40 शङ्ख-जल
शङ्ख-जल
शङ्खमें जल भरकर उसे भगवान्के ऊपर घुमायें ।
शङ्खमध्यस्थितं तोयं भ्रामितं केशवोपरि । अङ्गलग्नं मनुष्याणां ब्रह्महत्यां व्यपोहति ॥
41 पुष्पाञ्जलि
पुष्पाञ्जलि
दोनों हाथोंमें पुष्प लेकर पुष्पाञ्जलि समर्पित करें ।
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे । स मे कामान् काम कामाय मह्यं कामेश्वरो वैश्रवणो ददातु ॥ कुबेराय वैश्रवणाय महाराजाय नमः । ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात् सार्वभौमः सार्वायुषान्तादापरार्धात् पृथिव्यै समुद्रपर्यन्ताया एकराडिति तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे । आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ॥ ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन् देव एकः । तत्पुरुषाय विद्महे नारायणाय धीमहि तन्नो विष्णुः प्रचोदयात् । कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतस्वभावात् । करोति यद्यत् सकलं परस्मै नारायणायेति समर्पयेत्तत् ॥ ॐ श्रीमन्नारायणाय नमः । पुष्पाञ्जलिं समर्पयामि ।
42 प्रदक्षिणा
प्रदक्षिणा
देवताकी परिक्रमा करें ।
ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः । तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥ यानि कानि च पापानि जन्मान्तरकृतानि च । तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥ ॐ श्रीमन्नारायणाय नमः । प्रदक्षिणां समर्पयामि ।
43 क्षमा-प्रार्थना
क्षमा-प्रार्थना
पूजनमें रह गयी त्रुटिके लिये क्षमा माँगें ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् । तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥
44 चरणामृत-ग्रहण
चरणामृत-ग्रहण
भगवान्का चरणामृत ग्रहण करें ।
45 तुलसी-ग्रहण
तुलसी-ग्रहण
भगवान्को अर्पित तुलसीदल ग्रहण करें ।
पूजनानन्तरं विष्णोरर्पितं तुलसीदलम् । भक्षयेद्देहशुद्ध्यर्थं चान्द्रायणशताधिकम् ॥
46 प्रसाद-ग्रहण
प्रसाद-ग्रहण
प्रसाद ग्रहण करें ।
परिचय
गीताप्रेसके नित्यकर्म-पूजाप्रकाशमें छपी श्रीशालग्राम-पूजनकी पूरी विधि, पुस्तकके क्रमसे — रक्षाबन्धन और तिलकसे लेकर ध्यान, आवाहन, षोडशोपचार पूजन, आरती, प्रदक्षिणा और अन्तमें चरणामृत, तुलसी तथा प्रसाद-ग्रहणतक ।
स्रोत 2
- नित्यकर्म-पूजाप्रकाश (गीताप्रेस, गोरखपुर) — पृष्ठ २२९–२४२
Parsed from the page transcriptions by scripts/nitya-karma-data/extract-vidhi.py, which asserts a round-trip so no step can be dropped or reordered, and carries each sentence's printed block through so the two layers can be told apart. 46 steps in printed order. ONLY THE SANSKRIT IS TAKEN FROM THIS EDITION. Its Hindi is withheld in full: 4941 characters of it across this rite. What each step tells the reader to do is written for VedPath and is cited separately below. 1 uncertainty flag(s) remain in this range and are listed in the page files: p.233 [UNCERTAIN: "रसमुद्वयसꣳ" / "रसमुद्ध्यसꣳ"]
- VedPath — चरण-निर्देश — श्रीसत्यनारायण-पूजन विधि — 46 चरण
What each step tells the reader to do is written for this site from the traditional name of the upacāra and the mantra printed with it, not adapted from the edition above. Where the site already holds a text the rite calls for, the step links to it instead of repeating it.
अर्थ वेद पथ संपादकीय टीम द्वारा संकलित एवं संपादित हैं, और सामग्री की क्रमशः समीक्षा की जा रही है।