Skip to content
वेद पथ वैदिक ज्ञान का पथ

श्रीमहालक्ष्मी-पूजन विधि

साझा करें

पूजन-विधि

1

संकल्प

हाथमें जल, अक्षत और पुष्प लेकर संकल्प पढ़ें, फिर जल छोड़ दें ।

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ ॐ विष्णुः..... (पृ० सं० १९ के अनुसार) मासोत्तमे मासे कार्तिकमासे कृष्णपक्षे पुण्यायाममावास्यायां तिथौ अमुक वासरे अमुक गोत्रोत्पन्नः अमुक नाम शर्मा (वर्मा, गुप्तः, दासः) अहं श्रुतिस्मृतिपुराणोक्तफलावाप्तिकामनया ज्ञाताज्ञातकायिकवाचिकमानसिकसकलपापनिवृत्तिपूर्वकं स्थिरलक्ष्मीप्राप्तये श्रीमहालक्ष्मीप्रीत्यर्थं महालक्ष्मीपूजनं कुबेरादीनां च पूजनं करिष्ये । तदङ्गत्वेन गौरीगणपत्यादिपूजनं च करिष्ये ।

2

प्रतिष्ठा

मूर्तिमें देवताकी प्रतिष्ठा करें ।

ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञꣳ समिमं दधातु । विश्वे देवास इह मादयन्तामो३ म्प्रतिष्ठ । ॐ अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च । अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥

3

ध्यान

हाथमें पुष्प लेकर देवताके स्वरूपका ध्यान करें, फिर वह पुष्प सामने रख दें ।

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी गम्भीरावर्तनाभिस्तनभरनमिता शुभ्रवस्त्रोत्तरीया । या लक्ष्मीर्दिव्यरूपैर्मणिगणखचितैः स्नापिता हेमकुम्भैः सा नित्यं पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥ ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥ ॐ महालक्ष्म्यै नमः । ध्यानार्थे पुष्पाणि समर्पयामि ।

4

आवाहन

हाथमें अक्षत और पुष्प लेकर आवाहन-मुद्रासे देवताको पधारनेका निमन्त्रण दें, और वे अक्षत-पुष्प अर्पित करें ।

सर्वलोकस्य जननीं सर्वसौख्यप्रदायिनीम् । सर्वदेवमयीमीशां देवीमावाहयाम्यहम् ॥ ॐ तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ ॐ महालक्ष्म्यै नमः । महालक्ष्मीमावाहयामि, आवाहनार्थे पुष्पाणि समर्पयामि ।

5

आसन

देवताके बैठनेके लिये आसनके रूपमें पुष्प अथवा अक्षत समर्पित करें ।

तप्तकाञ्चनवर्णाभं मुक्तामणिविराजितम् । अमलं कमलं दिव्यमासनं प्रतिगृह्यताम् ॥ ॐ अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् । श्रियं देवीमुप ह्वये श्रीर्मा देवी जुषताम् ॥ ॐ महालक्ष्म्यै नमः । आसनं समर्पयामि ।

6

पाद्य

चरण धोनेके लिये आचमनीसे जल अर्पित करें ।

गङ्गादितीर्थसम्भूतं गन्धपुष्पादिभिर्युतम् । पाद्यं ददाम्यहं देवि गृहाणाशु नमोऽस्तु ते ॥ ॐ कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मेस्थितां पद्मवर्णां तामिहोप ह्वये श्रियम् ॥ ॐ महालक्ष्म्यै नमः । पादयोः पाद्यं समर्पयामि ।

7

अर्घ्य

हाथ धोनेके लिये गन्ध, अक्षत और पुष्पयुक्त जल अर्घ्यपात्रसे अर्पित करें ।

अष्टगन्धसमायुक्तं स्वर्णपात्रप्रपूरितम् । अर्घ्यं गृहाण महत्तं महालक्ष्मि नमोऽस्तु ते ॥ ॐ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । तां पद्मनीमीं शरणं प्र पद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥ ॐ महालक्ष्म्यै नमः । हस्तयोरर्घ्यं समर्पयामि ।

8

आचमन

देवताको आचमनके लिये आचमनीसे शुद्ध जल अर्पित करें ।

सर्वलोकस्य या शक्तिर्ब्रह्मविष्ण्वादिभिः स्तुता । ददाम्याचमनं तस्यै महालक्ष्म्यै मनोहरम् ॥ ॐ आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फलानि तपसा नुदन्तु या अन्तरा याश्च बाह्या अलक्ष्मीः ॥ ॐ महालक्ष्म्यै नमः । आचमनीयं जलं समर्पयामि ।

9

स्नान

देवताको शुद्ध जलसे स्नान करायें ।

मन्दाकिन्याः समानीतैर्हेमाम्भोरुहवासितैः । स्नानं कुरुष्व देवेशि सलिलैश्च सुगन्धिभिः ॥ ॐ महालक्ष्म्यै नमः । स्नानं समर्पयामि । स्नानान्ते आचमनीयं जलं समर्पयामि ।

10

दुग्ध-स्नान

दूधसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।

कामधेनुसमुत्पन्नं सर्वेषां जीवनं परम् । पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ॥ ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः । पयस्वतीः प्रदिशः सन्तु मह्यम् ॥ ॐ महालक्ष्म्यै नमः । पयःस्नानं समर्पयामि । पयःस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

11

दधिस्नान

दहीसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।

पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । दध्यानीतं मया देवि स्नानार्थं प्रतिगृह्यताम् ॥ ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः सुरभि नो मुखा करत्प्र ण आयूꣳषि तारिषत् । ॐ महालक्ष्म्यै नमः । दधिस्नानं समर्पयामि । दधिस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

12

घृतस्नान

घीसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।

नवनीतसमुत्पन्नं सर्वसंतोषकारकम् । घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥ ॐ घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा । दिशः प्रदिश आदिशो विदिश उद्दिशो दिग्भ्यः स्वाहा ॥ ॐ महालक्ष्म्यै नमः । घृतस्नानं समर्पयामि । घृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

13

मधुस्नान

मधुसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।

तरुपुष्पसमुद्भूतं सुस्वादु मधुरं मधु । तेजःपुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ॥ मधु नक्तमुतोषसो मधुमत्पार्थिवꣳ रजः । मधु द्यौरस्तु नः पिता ॥ मधुमान्नो वनस्पतिर्मधुमाँ२ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ॥ ॐ महालक्ष्म्यै नमः । मधुस्नानं समर्पयामि । मधुस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

14

शर्करास्नान

शर्करासे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।

इक्षुसारसमुद्भूता शर्करा पुष्टिकारिका । मलापहारिका दिव्या स्नानार्थं प्रतिगृह्यताम् ॥ ॐ अपाꣳ रसमुद्वयसꣳ सूर्ये सन्तꣳ समाहितम् । अपाꣳ रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥ ॐ महालक्ष्म्यै नमः । शर्करास्नानं समर्पयामि, शर्करास्नानान्ते पुनः शुद्धोदकस्नानं समर्पयामि ।

15

पञ्चामृतस्नान

दूध, दही, घी, मधु और शर्करा — इन पाँचोंको मिलाकर बने पञ्चामृतसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।

पयो दधि घृतं चैव मधुशर्करयान्वितम् । पञ्चामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्रोतसः । सरस्वती तु पञ्चधा सो देशेऽभवत् सरित् ॥ ॐ महालक्ष्म्यै नमः । पञ्चामृतस्नानं समर्पयामि, पञ्चामृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

16

गन्धोदकस्नान

चन्दन मिले सुगन्धित जलसे स्नान करायें ।

मलयाचलसम्भूतं चन्दनागरुसम्भवम् । चन्दनं देवदेवेशि स्नानार्थं प्रतिगृह्यताम् ॥ ॐ महालक्ष्म्यै नमः । गन्धोदकस्नानं समर्पयामि ।

17

शुद्धोदक-स्नान

शुद्ध जलसे स्नान करायें ।

मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् । तदिदं कल्पितं तुभ्यं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ महालक्ष्म्यै नमः । शुद्धोदकस्नानं समर्पयामि । तदनन्तर प्रतिमाका अङ्ग-प्रोक्षण कर (पोंछकर) )

18

आचमन

देवताको आचमनके लिये आचमनीसे शुद्ध जल अर्पित करें ।

)

19

वस्त्र

देवताको वस्त्र अर्पित करें, फिर आचमनके लिये जल दें ।

दिव्याम्बरं नूतनं हि क्षौमं ल्वतिमनोहरम् । दीयमानं मया देवि गृहाण जगदम्बिके ॥ ॐ उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥

20

उपवस्त्र

वस्त्रके ऊपर उपवस्त्र अर्पित करें; उपवस्त्रके अभावमें रक्तसूत्र अर्पित करें ।

कञ्चुकीमुपवस्त्रं च नानारत्नैः समन्वितम् । गृहाण त्वं मया दत्तं मङ्गले जगदीश्वरि ॥

21

मधुपर्क

दही, घी, जल, शर्करा और मधुसे बना मधुपर्क अर्पित करें ।

कांस्ये कांस्येन पिहितो दधिमध्वाज्यसंयुतः । मधुपर्को मयानीतः पूजार्थं प्रतिगृह्यताम् ॥

22

आभूषण

देवताको आभूषण अर्पित करें ।

रत्नकङ्कणवैदूर्यमुक्ताहारादिकानि च । सुप्रसन्नेन मनसा दत्तानि स्वीकुरुष्व भोः ॥ ॐ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥

23

गन्ध

चन्दन अनामिका अँगुलीसे देवताके अङ्गोंपर लगायें ।

श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठे चन्दनं प्रतिगृह्यताम् ॥ ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोप ह्वये श्रियम् ॥

24

रक्तचन्दन

लाल चन्दन अर्पित करें ।

रक्तचन्दनसम्मिश्रं पारिजातसमुद्भवम् । मया दत्तं महालक्ष्मि चन्दनं प्रतिगृह्यताम् ॥

25

सिन्दूर

सिन्दूर अर्पित करें ।

सिन्दूरं रक्तवर्णं च सिन्दूरतिलकप्रिये । भक्त्या दत्तं मया देवि सिन्दूरं प्रतिगृह्यताम् ॥ ॐ सिन्धोरिव प्राध्वने शूघनासो वात प्रमियः पतयन्ति यह्वाः । घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥

26

कुङ्कुम

कुङ्कुम अर्पित करें ।

कुङ्कुमं कामदं दिव्यं कुङ्कुमं कामरूपिणम् । अखण्डकामसौभाग्यं कुङ्कुमं प्रतिगृह्यताम् ॥

27

पुष्पसार (इतर)

पुष्पसार — इतर — अर्पित करें ।

तैलानि च सुगन्धीनि द्रव्याणि विविधानि च । मया दत्तानि लेपार्थं गृहाण परमेश्वरि ॥

28

अक्षत¹

अक्षत अर्पित करें ।

अक्षताश्च सुरश्रेष्ठे कुङ्कुमाक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वरि ॥

29

पुष्प एवं पुष्पमाला

पुष्प तथा पुष्पमाला अर्पित करें ।

माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो । मयानीतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥ ॐ मनसः कामपाकूतिं वाचः सत्यमशीमहि । पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥

30

दूर्वा

दूर्वाङ्कुर अर्पित करें ।

विष्ण्वादिसर्वदेवानां प्रियां सर्वसुशोभनाम् । क्षीरसागरसम्भूते दूर्वा स्वीकुरु सर्वदा ॥ ॐ चपलायै नमः, पादौ पूजयामि । ॐ चञ्चलायै नमः, जानुनी पूजयामि । ॐ कमलायै नमः, कटिं पूजयामि । ॐ कात्यायन्यै नमः, नाभिं पूजयामि । ॐ जगन्मात्रे नमः, जठरं पूजयामि । ॐ विश्ववल्लभायै नमः, वक्षःस्थलं पूजयामि । ॐ कमलवासिन्यै नमः, हस्तौ पूजयामि । ॐ पद्माननायै नमः, मुखं पूजयामि । ॐ कमलपत्राक्ष्यै नमः, नेत्रत्रयं पूजयामि । ॐ श्रियै नमः, शिरः पूजयामि । ॐ महालक्ष्म्यै नमः, सर्वाङ्गं पूजयामि । १-ॐ अणिम्ने नमः (पूर्वे) , २-ॐ महिम्ने नमः (अग्निकोणे) , ३-ॐ गरिम्णे नमः (दक्षिणे) , ४-ॐ लघिम्ने नमः (नैर्ऋत्ये) , ५-ॐ प्राप्त्यै नमः (पश्चिमे) , ६-ॐ प्राकाम्यै नमः (वायव्ये) , ७-ॐ ईशितायै नमः (उत्तरे) तथा ८-ॐ वशितायै नमः (ऐशान्याम्) । १-ॐ आद्यलक्ष्म्यै नमः, २-ॐ विद्यालक्ष्म्यै नमः, ३-ॐ सौभाग्यलक्ष्म्यै नमः, ४-ॐ अमृतलक्ष्म्यै नमः, ५-ॐ कामलक्ष्म्यै नमः, ६-ॐ सत्यलक्ष्म्यै नमः, ७-ॐ भोगलक्ष्म्यै नमः ८-ॐ योगलक्ष्म्यै नमः ।

31

धूप

धूप जलाकर देवताको दिखायें ।

वनस्पतिरसोद्भूतो गन्धाढ्यः सुमनोहरः । आग्नेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ ॐ कर्दमेन प्रजा भूता मयि संभव कर्दम । श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥

32

दीप

दीप जलाकर देवताको दिखायें, फिर हाथ धो लें ।

कार्पासवर्तिसंयुक्तं घृतयुक्तं मनोहरम् । तमोनाशकरं दीपं गृहाण परमेश्वरि ॥ ॐ आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे । नि च देवीं मातरं श्रियं वासय मे कुले ॥

33

नैवेद्य

देवताको नैवेद्य निवेदित करें ।

नैवेद्यं गृह्यतां देवि भक्ष्यभोज्यसमन्वितम् । षड्रसैरन्वितं दिव्यं लक्ष्मि देवि नमोऽस्तु ते ॥ ॐ आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥

34

करोद्वर्तन

सुगन्धित द्रव्यसे देवताके अङ्गोंका उद्वर्तन करें ।

35

आचमन

देवताको आचमनके लिये आचमनीसे शुद्ध जल अर्पित करें ।

शीतलं निर्मलं तोयं कर्पूरेण सुवासितम् । आचम्यतां जलं होतत् प्रसीद परमेश्वरि ॥

36

ऋतुफल

ऋतुके अनुसार फल अर्पित करें ।

फलेन फलितं सर्वं त्रैलोक्यं सचराचरम् । तस्मात् फलप्रदानेन पूर्णाः सन्तु मनोरथाः ॥

37

ताम्बूल-पूगीफल

पान और सुपारी अर्पित करें ।

पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । एलाचूर्णादिसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ ॐ आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् । सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥

38

दक्षिणा

यथाशक्ति द्रव्य-दक्षिणा अर्पित करें ।

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥ ॐ तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥

39

नीराजन

दीपोंसे नीराजन करें ।

चक्षुर्दं सर्वलोकानां तिमिरस्य निवारणम् । आर्तिक्यं कल्पितं भक्त्या गृहाण परमेश्वरि ॥

इसी स्थानपर की जानेवाली आरती →
40

प्रदक्षिणा

देवताकी परिक्रमा करें ।

यानि कानि च पापानि जन्मान्तरकृतानि च । तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥

41

प्रार्थना

हाथ जोड़कर प्रार्थना करें ।

सुरासुरेन्द्रादिकिरीटमौक्तिकै- युक्तं सदा यत्तव पादपङ्कजम् । परावरं पातु वरं सुमङ्गलं नमामि भक्त्याखिलकामसिद्धये ॥ भवानि त्वं महालक्ष्मीः सर्वकामप्रदायिनी । सुपूजिता प्रसन्ना स्यान्महालक्ष्मि ! नमोऽस्तु ते ॥ नमस्ते सर्वदेवानां वरदासि हरिप्रिये । या गतिस्त्वत्प्रपन्नानां सा मे भूयात् त्वदर्चनात् ॥

42

समर्पण

किये हुए पूजनका फल भगवान्‌को समर्पित करें ।

कालिके ! त्वं जगन्मातर्मसिरूपेण वर्तसे । उत्पन्ना त्वं च लोकानां व्यवहारप्रसिद्धये ॥ या कालिका रोगहरा सुवन्द्या भक्तैः समस्तैर्व्यवहारदक्षैः । जनैर्जनानां भयहारिणी च सा लोकमाता मम सौख्यदास्तु ॥ लेखनी निर्मिता पूर्वं ब्रह्मणा परमेष्ठिना । लोकानां च हितार्थाय तस्मात्तां पूजयाम्यहम् ॥ शास्त्राणां व्यवहाराणां विद्यानामाप्नुयाद्यतः । अतस्त्वां पूजयिष्यामि मम हस्ते स्थिरा भव ॥

43

पञ्जिका

बही-खाते तथा लेखनीका पूजन करें ।

44

ध्यान

हाथमें पुष्प लेकर देवताके स्वरूपका ध्यान करें, फिर वह पुष्प सामने रख दें ।

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ आवाहयामि देव त्वामिहायाहि कृपां कुरु । कोशं वर्धय नित्यं त्वं परिरक्ष सुरेश्वर ॥ धनदाय नमस्तुभ्यं निधिपद्माधिपाय च । भगवन् त्वत्प्रसादेन धनधान्यादिसम्पदः ॥ नमस्ते सर्वदेवानां शक्तित्वे सत्यमाश्रिता । साक्षीभूता जगद्धात्री निर्मिता विश्वयोनिना ॥ त्वं ज्योतिस्त्वं रविश्चन्द्रो विद्युदग्निश्च तारकाः । सर्वेषां ज्योतिषां ज्योतिर्दीपावल्यै नमो नमः ॥ ॐ जय लक्ष्मी माता, (मैया) जय लक्ष्मी माता । तुमको निसिदिन सेवत हर-विष्णु-धाता ॥ ॐ ॥ उमा, रमा, ब्रह्माणी, तुम ही जग-माता । सूर्य-चन्द्रमा ध्यावत, नारद ऋषि गाता ॥ ॐ ॥ दुर्गारूप निरञ्जनि, सुख-सम्पति-दाता । जो कोइ तुमको ध्यावत, ऋधि-सिधि-धन पाता ॥ ॐ ॥ तुम पाताल-निवासिनि, तुम ही शुभदाता । कर्म-प्रभाव-प्रकाशिनि, भवनिधिकी त्राता ॥ ॐ ॥ जिस घर तुम रहती, तहँ सब सद्गुण आता । मन नहिं घबराता ॥ ॐ ॥ तुम बिन यज्ञ न होते, वस्त्र न हो पाता । खान-पानका वैभव सब तुमसे आता ॥ ॐ ॥ शुभ-गुण-मन्दिर सुन्दर, क्षीरोदधि-जाता । रत्न चतुर्दश तुम बिन कोई नहिं पाता ॥ ॐ ॥ महालक्ष्मी (जी) की आरति, जो कोई नर गाता । उर आनन्द समाता, ॐ ॥

45

मन्त्र-पुष्पाञ्जलि

मन्त्र पढ़ते हुए पुष्पाञ्जलि समर्पित करें ।

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे । स मे कामान् कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु ॥ कुबेराय वैश्रवणाय महाराजाय नमः । ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात् सार्वभौमः सार्वायुषान्तादापरार्धात् । पृथिव्यै समुद्रपर्यन्ताया एकराडिति तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे । आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति । ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन् देव एकः ॥ महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात् । ॐ या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः । श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् ॥

46

क्षमा-प्रार्थना

पूजनमें रह गयी त्रुटिके लिये क्षमा माँगें ।

नमस्ते सर्वदेवानां वरदासि हरिप्रिये । या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्चनात् ॥ आवाहनं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि क्षमस्व परमेश्वरि ॥

परिचय

गीताप्रेसके नित्यकर्म-पूजाप्रकाशमें छपी श्रीमहालक्ष्मी-पूजनकी पूरी विधि, पुस्तकके क्रमसे — संकल्प, प्रतिष्ठा और ध्यानसे लेकर षोडशोपचार पूजन, नीराजन, प्रदक्षिणा, पञ्जिका-पूजन और अन्तमें मन्त्र-पुष्पाञ्जलि तथा क्षमा-प्रार्थनातक । दीपावलीपर यही पूजन किया जाता है ।

स्रोत 2

  • नित्यकर्म-पूजाप्रकाश (गीताप्रेस, गोरखपुर) — पृष्ठ २४३–२५९

    Parsed from the page transcriptions by scripts/nitya-karma-data/extract-vidhi.py, which asserts a round-trip so no step can be dropped or reordered, and carries each sentence's printed block through so the two layers can be told apart. 46 steps in printed order. ONLY THE SANSKRIT IS TAKEN FROM THIS EDITION. Its Hindi is withheld in full: 8621 characters of it across this rite. What each step tells the reader to do is written for VedPath and is cited separately below. 9 uncertainty flag(s) remain in this range and are listed in the page files: p.247 [UNCERTAIN: "रसमुद्वयसꣳ" / "रसमुद्ध्यसꣳ"]; p.256 [PARTIALLY ILLEGIBLE: first akṣara damaged]; p.256 [PARTIALLY ILLEGIBLE: "स्व"]; p.256 [PARTIALLY ILLEGIBLE: "अ"]; p.256 [PARTIALLY ILLEGIBLE: "स"]; p.256 [PARTIALLY ILLEGIBLE: "म"]; p.256 [PARTIALLY ILLEGIBLE: "अ"]; p.256 [PARTIALLY ILLEGIBLE: "य"]; p.257 [PARTIALLY ILLEGIBLE: "…ाङ्गोंका" — opening akṣara under-inked]

  • VedPath — चरण-निर्देश — श्रीमहालक्ष्मी-पूजन विधि — 46 चरण

    What each step tells the reader to do is written for this site from the traditional name of the upacāra and the mantra printed with it, not adapted from the edition above. Where the site already holds a text the rite calls for, the step links to it instead of repeating it.

अर्थ वेद पथ संपादकीय टीम द्वारा संकलित एवं संपादित हैं, और सामग्री की क्रमशः समीक्षा की जा रही है।

और देखें 11