पञ्चदेव-पूजन विधि
पूजन-विधि
1 पञ्चदेव
पञ्चदेव
सूर्य, गणेश, देवी, रुद्र और विष्णु — ये पाँच देव हैं, जिनका पूजन सब कर्मोंमें होता है ।
आदित्यं गणनाथं च देवीं रुद्रं च केशवम् । पञ्चदैवत्यमित्युक्तं सर्वकर्मसु पूजयेत् ॥ (मत्स्यपुराण)
2 अनेक देवमूर्ति-पूजा-प्रतिष्ठा-विचार
अनेक देवमूर्ति-पूजा-प्रतिष्ठा-विचार
घरमें कितनी और कौन-सी मूर्तियाँ रखी जायँ — स्मृति-वचन ।
एका मूर्तिर्न सम्पूज्या गृहिणा स्वेष्टमिच्छता । अनेकमूर्तिसम्पन्नः सर्वान् कामानवाप्नुयात् ॥ गृहे लिङ्गद्वयं नार्च्यं गणेशत्रितयं तथा । शङ्खद्वयं तथा सूर्यो नार्च्यौ शक्तित्रयं तथा ॥ द्वे चक्रे द्वारकायास्तु शालग्रामशिलाद्वयम् । तेषां तु पूजनेनैव उद्वेगं प्राप्नुयाद् गृही ॥ (आचारप्रकाश, आचारेन्दु) शालग्रामशिलायास्तु प्रतिष्ठा नैव विद्यते । (स्कन्दपुराण) बाणलिङ्गानि राजेन्द्र ख्यातानि भुवनत्रये । न प्रतिष्ठा न संस्कारस्तेषां नावाहनं तथा ॥ (भविष्यपुराण) शैलीं दारुमयीं हैमीं धात्वाद्याकारसम्भवाम् । प्रतिष्ठां वै प्रकुर्वीत प्रासादे वा गृहे नृप ॥ (वृद्धपाराशर) गृहे चलार्चा विज्ञेया प्रासादे स्थिरसंज्ञिका । इत्येते कथिता मार्गा मुनिभिः कर्मवादिभिः ॥ (लौगाक्षिभास्कर) गङ्गाप्रवाहे शालग्रामशिलायां च सुरार्चने । द्विजपुङ्गव ! नापेक्ष्ये आवाहनविसर्जने ॥ शिवलिङ्गेऽपि सर्वेषां देवानां पूजनं भवेत् । सर्वलोकमये यस्माच्छिवशक्तिर्विभुः प्रभुः ॥ (बृहद्धर्मपुराण अ० ८७)
3 फूल तोड़नेका मन्त्र
फूल तोड़नेका मन्त्र
पूजाके लिये फूल तोड़नेसे पहले यह मन्त्र पढ़ें ।
मा नु शोकं कुरुष्व त्वं स्थानत्यागं च मा कुरु । देवतापूजनार्थाय प्रार्थयामि वनस्पते ॥
4 तुलसीदल-चयन
तुलसीदल-चयन
तुलसीदल तोड़नेसे पहले यह मन्त्र पढ़ें ।
तुलसीं ये विचिन्वन्ति धन्यास्ते करपल्लवाः ।
5 तुलसी-दल तोड़नेके मन्त्र
तुलसी-दल तोड़नेके मन्त्र
तुलसीदल तोड़नेसे पहले ये मन्त्र पढ़ें ।
तुलस्यमृतजन्मासि सदा त्वं केशवप्रिया । चिनोमि केशवस्यार्थें वरदा भव शोभने ॥ त्वदङ्गसम्भवैः पत्रैः पूजयामि यथा हरिम् । तथा कुरु पवित्राङ्गि ! कलौ मलविनाशिनि ॥ (आह्निकसूत्रावली)
6 बिल्वपत्र तोड़नेका मन्त्र
बिल्वपत्र तोड़नेका मन्त्र
बिल्वपत्र तोड़नेसे पहले यह मन्त्र पढ़ें ।
अमृतोद्भव ! श्रीवृक्ष ! महादेवप्रियः सदा । गृह्णामि तव पत्राणि शिवपूजार्थमादरात् ॥ (आचारेन्दु)
7 गृह-मन्दिरमें स्थित पञ्चदेव-पूजा
गृह-मन्दिरमें स्थित पञ्चदेव-पूजा
विघ्नोंकी निवृत्तिका विनियोग पढ़कर मन्त्रसे पूजास्थानको शुद्ध करें ।
विनियोग— अपसर्पन्त्विति मन्त्रस्य वामदेव ऋषिः, शिवो देवता, अनुष्टुप् छन्दः, भूतादिविघ्नोत्सादने विनियोगः । ॐ अपसर्पन्तु ते भूता ये भूता भूतले स्थिताः । ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥ ॐ पृथ्वीति मन्त्रस्य मेरुपृष्ठ ऋषिः, सुतलं छन्दः, कूर्मो देवता, आसनपवित्रकरणे विनियोगः । ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥ १-ॐ लं पृथिव्यात्मकं गन्धं परिकल्पयामि । २-ॐ हं आकाशात्मकं पुष्पं परिकल्पयामि । ३-ॐ यं वाय्वात्मकं धूपं परिकल्पयामि । ४-ॐ रं वह्न्यात्मकं दीपं दर्शयामि । ५-ॐ वं अमृतात्मकं नैवेद्यं निवेदयामि । ६-ॐ सौं सर्वात्मकं सर्वोपचारं समर्पयामि ।
8 गणेश-स्मरण
गणेश-स्मरण
पूजाके आरम्भमें भगवान् गणेशका स्मरण करें ।
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥ धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥ विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥ श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः । उमामहेश्वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः । शचीपुरन्दराभ्यां नमः । मातृपितृचरणकमलेभ्यो नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । एतत्कर्मप्रधानदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः । — ॐ विष्णुर्विष्णुर्विष्णुः अद्य····अहं श्रीपरमेश्वरप्रीत्यर्थं विष्णुशिवगणेशसूर्यदुर्गार्चनं करिष्ये । — ····सर्वाभीष्टस्वर्गापवर्गफलप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थं विष्णुशिवगणेशसूर्यदुर्गार्चनं करिष्ये ।
9 घण्टा-पूजन
घण्टा-पूजन
घण्टाका पूजन करें ।
आगमार्थं तु देवानां गमनार्थं च रक्षसाम् । कुरु घण्टे वरं नादं देवतास्थानसंनिधौ ॥ ‘घण्टास्थिताय गरुडाय नमः । ’
10 शङ्खपूजन
शङ्खपूजन
शङ्खका पूजन करें ।
पृथिव्यां यानि तीर्थानि स्थावराणि चराणि च । तानि तीर्थानि शङ्खेऽस्मिन् विशन्तु ब्रह्मशासनात् ॥ निर्मितः सर्वदेवैश्च पाञ्चजन्य ! नमोऽस्तु ते ॥
11 प्रोक्षण
प्रोक्षण
पूजा-सामग्रीपर जल छिड़ककर उसे शुद्ध करें ।
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
12 उदकुम्भकी पूजा
उदकुम्भकी पूजा
जलसे भरे कलशका पूजन करें ।
ॐ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥ अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः । अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा ॥ सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः । आयान्तु देवपूजार्थं दुरितक्षयकारकाः ॥ गङ्गे च यमुने चैव गोदावरि सरस्वति ! नर्मदे सिन्धु कावेरि जलेऽस्मिन् संनिधिं कुरु ॥ देवदानवसंवादे मथ्यमाने महोदधौ । उत्पन्नोऽसि तदा कुम्भ ! विधृतो विष्णुना स्वयम् ॥ त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः । त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥ शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः । आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः ॥ त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः । त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव ! सांनिध्यं कुरु मे देव प्रसन्नो भव सर्वदा ॥ उद्यत्कोटिदिवाकराभमनिशं शङ्खं गदां पङ्कजं चक्रं बिभ्रतमिन्दिरावसुमतीसंशोभिपार्श्वद्वयम् । कोटीराङ्गदहारकुण्डलधरं पीताम्बरं कौस्तुभै- र्दीप्तं विश्वधरं स्ववक्षसि लसच्छ्रीवत्सचिह्नं भजे ॥ ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ॐ विष्णवे नमः । ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ॐ शिवाय नमः । खर्वं स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं प्रस्यन्दन्मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम् । दन्ताघातविदारितारिरुधिरैः सिन्दूरशोभाकरं वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम् ॥ ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ॐ श्रीगणेशाय नमः । रक्ताम्बुजासनमशेषगुणैकसिन्धुं भानुं समस्तजगतामधिपं भजामि । पद्मद्वयाभयवरान् दधतं कराब्जै- र्माणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम् ॥ ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ॐ श्रीसूर्याय नमः । सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैः शङ्खं चक्रधनुःशरांश्च दधती नेत्रैस्त्रिभिः शोभिता । आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरा दुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला ॥ ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ॐ श्रीदुर्गायै नमः ।
13 पुष्पाञ्जलि
पुष्पाञ्जलि
दोनों हाथोंमें पुष्प लेकर पुष्पाञ्जलि समर्पित करें ।
— ‘ॐ विष्णुशिवगणेशसूर्यदुर्गाभ्यो नमः, पुष्पाञ्जलिं समर्पयामि । ’
14 आवाहन
आवाहन
हाथमें अक्षत और पुष्प लेकर आवाहन-मुद्रासे देवताको पधारनेका निमन्त्रण दें, और वे अक्षत-पुष्प अर्पित करें ।
— आगच्छन्तु सुरश्रेष्ठा भवन्त्वत्र स्थिराः समे । यावत् पूजां करिष्यामि तावत् तिष्ठन्तु संनिधौ ॥ ॐ विष्णुशिवगणेशसूर्यदुर्गाभ्यो नमः, आवाहनार्थे पुष्पं समर्पयामि ।
15 आसन
आसन
देवताके बैठनेके लिये आसनके रूपमें पुष्प अथवा अक्षत समर्पित करें ।
अनेकरत्नसंयुक्तं नानामणिगणान्वितम् । कार्तस्वरमयं दिव्यमासनं परिगृह्यताम् ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, आसनार्थे तुलसीदलं समर्पयामि ।
16 पाद्य
पाद्य
चरण धोनेके लिये आचमनीसे जल अर्पित करें ।
गङ्गादिसर्वतीर्थेभ्य आनीतं तोयमुत्तमम् । पाद्यार्थं सम्प्रदास्यामि गृह्णन्तु परमेश्वराः ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, पादयोः पाद्यं समर्पयामि ।
17 अर्घ्य
अर्घ्य
हाथ धोनेके लिये गन्ध, अक्षत और पुष्पयुक्त जल अर्घ्यपात्रसे अर्पित करें ।
गन्धपुष्पाक्षतैर्युक्तमर्घ्यं सम्पादितं मया । गृह्णन्त्वर्घ्यं महादेवाः प्रसन्नाश्च भवन्तु मे ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, हस्तयोरर्घ्यं समर्पयामि ।
18 आचमन
आचमन
देवताको आचमनके लिये आचमनीसे शुद्ध जल अर्पित करें ।
कर्पूरेण सुगन्धेन वासितं स्वादु शीतलम् । तोयमाचमनीयार्थं गृह्णन्तु परमेश्वराः ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, आचमनीयं जलं समर्पयामि ।
19 स्नान
स्नान
देवताको शुद्ध जलसे स्नान करायें ।
मन्दाकिन्याः समानीतैः कर्पूरागुरुवासितैः । स्नानं कुर्वन्तु देवेशा जलैरेभिः सुगन्धिभिः ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, स्नानीयं जलं समर्पयामि ।
20 आचमन
आचमन
देवताको आचमनके लिये आचमनीसे शुद्ध जल अर्पित करें ।
स्नानान्ते आचमनीयं जलं समर्पयामि ।
21 पञ्चामृत-स्नान
पञ्चामृत-स्नान
दूध, दही, घी, मधु और शर्करा — इन पाँचोंको मिलाकर बने पञ्चामृतसे स्नान करायें, फिर शुद्ध जलसे स्नान करायें ।
पयो दधि घृतं चैव मधु च शर्करान्वितम् । पञ्चामृतं मयाऽऽनीतं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, पञ्चामृतस्नानं समर्पयामि ।
22 गन्धोदकस्नान
गन्धोदकस्नान
चन्दन मिले सुगन्धित जलसे स्नान करायें ।
मलयाचलसम्भूतचन्दनेन विमिश्रितम् । इदं गन्धोदकं स्नानं कुङ्कुमाक्तं नु गृह्यताम् ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, गन्धोदकं समर्पयामि ।
23 गन्धोदकस्नानान्ते शुद्धोदकस्नानम्
गन्धोदकस्नानान्ते शुद्धोदकस्नानम्
गन्धोदक-स्नानके बाद शुद्ध जलसे स्नान करायें ।
24 शुद्धोदकस्नान
शुद्धोदकस्नान
शुद्ध जलसे स्नान करायें ।
मलयाचलसम्भूतचन्दनाऽगरुमिश्रितम् । सलिलं देवदेवेश ! शुद्धस्नानाय गृह्यताम् ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, शुद्धोदकस्नानं समर्पयामि ।
25 आचमन
आचमन
देवताको आचमनके लिये आचमनीसे शुद्ध जल अर्पित करें ।
शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।
26 वस्त्र और उपवस्त्र
वस्त्र और उपवस्त्र
वस्त्र और उपवस्त्र अर्पित करें, फिर आचमनके लिये जल दें ।
शीतवातोष्णसंत्राणे लोकलज्जानिवारणे । देहालङ्करणे वस्त्रे भवद्भ्यो वाससी शुभे ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, वस्त्रमुपवस्त्रं च समर्पयामि ।
27 आचमन
आचमन
देवताको आचमनके लिये आचमनीसे शुद्ध जल अर्पित करें ।
वस्त्रोपवस्त्रान्ते आचमनीयं जलं समर्पयामि ।
28 यज्ञोपवीत
यज्ञोपवीत
देवताको यज्ञोपवीत अर्पित करें, फिर आचमनके लिये जल दें ।
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् । उपवीतं मया दत्तं गृह्णन्तु परमेश्वराः ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, यज्ञोपवीतं समर्पयामि ।
29 आचमन
आचमन
देवताको आचमनके लिये आचमनीसे शुद्ध जल अर्पित करें ।
यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।
30 चन्दन
चन्दन
चन्दन अनामिका अँगुलीसे देवताके अङ्गोंपर लगायें ।
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, चन्दनानुलेपनं समर्पयामि ।
31 पुष्पमाला
पुष्पमाला
पुष्पोंकी माला पहनायें ।
माल्यादीनि सुगन्धीनि मालत्यादीनि भक्तितः । मयाऽऽहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, पुष्पाणि (पुष्पमालाम्) समर्पयामि ।
32 तुलसीदल और मञ्जरी
तुलसीदल और मञ्जरी
तुलसीदल तथा तुलसी-मञ्जरी अर्पित करें ।
तुलसीं हेमरूपां च रत्नरूपां च मञ्जरीम् । भवमोक्षप्रदां रम्यामर्पयामि हरिप्रियाम् ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, तुलसीदलं मञ्जरीं च समर्पयामि ।
33 धूप
धूप
धूप जलाकर देवताको दिखायें ।
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, धूपमाघ्रापयामि ।
34 दीप
दीप
दीप जलाकर देवताको दिखायें, फिर हाथ धो लें ।
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया । दीपं गृह्णन्तु देवेशास्त्रैलोक्यतिमिरापहम् ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, दीपं दर्शयामि ।
35 नैवेद्य
नैवेद्य
देवताको नैवेद्य निवेदित करें ।
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च । आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, नैवेद्यं निवेदयामि । नैवेद्यान्ते ध्यानं ध्यानान्ते आचमनीयं जलं समर्पयामि । उत्तरापोऽशनार्थं हस्तप्रक्षालनार्थं मुखप्रक्षालनार्थं च जलं समर्पयामि ।
36 ऋतुफल
ऋतुफल
ऋतुके अनुसार फल अर्पित करें ।
इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, ऋतुफलानि समर्पयामि । मध्ये आचमनीयं उत्तरापोऽशनं च जलं समर्पयामि ।
37 ताम्बूल
ताम्बूल
इलायची, लौंग और सुपारीके साथ पान अर्पित करें ।
पूगीफलं महद् दिव्यं नागवल्लीदलैर्युतम् । एलालवंगसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, मुखवासार्थे ताम्बूलं समर्पयामि ।
38 दक्षिणा
दक्षिणा
यथाशक्ति द्रव्य-दक्षिणा अर्पित करें ।
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, दक्षिणां समर्पयामि । ।
39 आरती
आरती
कर्पूर जलाकर आरती करें; आरतीके बाद जल गिरा दें ।
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् । आरार्तिकमहं कुर्वे पश्य मां वरदो भव ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, आरार्तिकं समर्पयामि ।
40 शङ्ख-भ्रामण
शङ्ख-भ्रामण
शङ्खमें जल भरकर उसे देवताके ऊपर घुमायें ।
शङ्खमध्ये स्थितं तोयं भ्रामितं केशवोपरि । अङ्गलग्नं मनुष्याणां ब्रह्महत्यां व्यपोहति ॥
41 प्रदक्षिणा
प्रदक्षिणा
देवताकी परिक्रमा करें ।
यानि कानि च पापानि जन्मान्तरकृतानि च । तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, प्रदक्षिणां समर्पयामि ।
42 मन्त्रपुष्पाञ्जलि
मन्त्रपुष्पाञ्जलि
मन्त्र पढ़ते हुए पुष्पाञ्जलि समर्पित करें ।
श्रद्धया सिक्तया भक्त्या हार्दप्रेम्णा समर्पितः । मन्त्रपुष्पाञ्जलिश्चायं कृपया प्रतिगृह्यताम् ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, मन्त्रपुष्पाञ्जलिं समर्पयामि ।
43 नमस्कार
नमस्कार
देवताको साष्टाङ्ग नमस्कार करें ।
नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, प्रार्थनापूर्वकं नमस्कारान् समर्पयामि ।
44 वैष्णव संतोंको
वैष्णव संतोंको
वैष्णव संतोंके उद्देश्यसे निर्माल्य दें ।
विष्वक्सेनोद्धवाक्रूराः सनकाद्याः शुकादयः । महाविष्णुप्रसादोऽयं सर्वे गृह्णन्तु वैष्णवाः ॥ (ख)
45 गाणपत्य संतोंको
गाणपत्य संतोंको
गाणपत्य संतोंके उद्देश्यसे निर्माल्य दें ।
गणेशो गालवो गार्ग्यो मङ्गलश्च सुधाकरः । गणेशस्य प्रसादोऽयं सर्वे गृह्णन्तु भागिनः ॥ (ग)
46 शैव संतोंको
शैव संतोंको
शैव संतोंके उद्देश्यसे निर्माल्य दें ।
बाणरावणचण्डीशनन्दिभृङ्गिरिटादयः । सदाशिवप्रसादोऽयं सर्वे गृह्णन्तु शाम्भवाः ॥ (घ)
47 शाक्त संतोंको
शाक्त संतोंको
शाक्त संतोंके उद्देश्यसे निर्माल्य दें ।
शक्तिरुच्छिष्टचाण्डालीसोमसूर्यहुताशनाः । महालक्ष्मीप्रसादोऽयं सर्वे गृह्णन्तु शाक्तिकाः ॥ (ङ)
48 सौर संतोंको
सौर संतोंको
सौर संतोंके उद्देश्यसे निर्माल्य दें ।
छायासंज्ञाश्राद्धरेवादण्डमाठरकादयः । दिवाकरप्रसादोऽयं ब्राध्ना गृह्णन्तु शेषकम् ॥
49 चरणामृत-पान
चरणामृत-पान
चरणामृत ग्रहण करें ।
अकालमृत्युहरणं सर्वव्याधिविनाशनम् । विष्णुपादोदकं पीत्वा पुनर्जन्म न विद्यते ॥
50 क्षमा-याचना
क्षमा-याचना
पूजनमें रह गयी त्रुटिके लिये क्षमा माँगें ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन । यत्पूजितं मया देव ! परिपूर्णं तदस्तु मे ॥ आवाहनं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि क्षमस्व परमेश्वर ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात् कारुण्यभावेन रक्ष मां परमेश्वर ॥
51 प्रसाद-ग्रहण
प्रसाद-ग्रहण
प्रसाद ग्रहण करें ।
ॐ तत्सद् ब्रह्मार्पणमस्तु । ॐ विष्णवे नमः, ॐ विष्णवे नमः, ॐ विष्णवे नमः ।
परिचय
गीताप्रेसके नित्यकर्म-पूजाप्रकाशमें छपी पञ्चदेव (विष्णु, शिव, गणेश, सूर्य, दुर्गा) पूजनकी पूरी विधि, पुस्तकके क्रमसे — पूजाकी तैयारी, उपचार-भेद, पुष्प-तुलसी-बिल्वपत्र चयनके मन्त्र, संकल्प, पाँचों देवोंका ध्यान और सर्वसामान्य देव-पूजाका विधानतक ।
स्रोत 2
- नित्यकर्म-पूजाप्रकाश (गीताप्रेस, गोरखपुर) — पृष्ठ १०५–१३१
Parsed from the page transcriptions by scripts/nitya-karma-data/extract-vidhi.py, which asserts a round-trip so no step can be dropped or reordered, and carries each sentence's printed block through so the two layers can be told apart. 51 steps in printed order; 9 further passage(s) the edition prints in this range are exposition rather than steps — rules and lists carrying no mantra — and are omitted here, though the page transcriptions keep them verbatim. ONLY THE SANSKRIT IS TAKEN FROM THIS EDITION. Its Hindi is withheld in full: 10892 characters of it across this rite. What each step tells the reader to do is written for VedPath and is cited separately below. 10 uncertainty flag(s) remain in this range and are listed in the page files: p.106 [UNCERTAIN: "८७" / "५७"]; p.109 [UNCERTAIN: "केशवस्यार्थें" / "केशवस्यार्थे"]; p.109 [UNCERTAIN: "कितु" / "किंतु"]; p.110 [UNCERTAIN: "कितु" / "किंतु"]; p.110 [UNCERTAIN: "कितु" / "किंतु"]; p.112 [UNCERTAIN: "कितु" / "किंतु"]; p.114 [UNCERTAIN: "पोडशोपचार" / "षोडशोपचार"]; p.127 [UNCERTAIN: "मालत्यादीनि" / "मालल्यादीनि"]; p.129 [UNCERTAIN: "श्राद्धरेवा" / "श्राद्धुरेवा"]; p.129 [UNCERTAIN: "ब्राध्ना" / "ब्राध्नाः"]
- VedPath — चरण-निर्देश — पञ्चदेव-पूजन विधि — 51 चरण
What each step tells the reader to do is written for this site from the traditional name of the upacāra and the mantra printed with it, not adapted from the edition above. Where the site already holds a text the rite calls for, the step links to it instead of repeating it.
अर्थ वेद पथ संपादकीय टीम द्वारा संकलित एवं संपादित हैं, और सामग्री की क्रमशः समीक्षा की जा रही है।